भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 188, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 188

( १६० ) नायकः- (सोद्वेगम्) कष्टम् ! किं निमित्तममी सङ्घात- मृत्यवो जाताः ? मित्रावसुः- कुमार ! नैवामी सङ्घातमृत्यवः । श्रूयतां यथैतत् । पुरा किल स्वपक्षपवनापास्तसमस्तसागरजलस्तरसा रसातलादुद्धृत्य भुजङ्गमाननुदिनमाहारयति स्म वैनतेयः । नायकः- (सोद्वेगम्) कष्टम् ! अतिदुष्करं करोति । ततस्ततः । मित्रावसुः- ततः सकलनागविनाशाशङ्किना ¹ वासुकिना गरुत्मानभिहितः । नायकः- (²सादरम्) किं 'मां प्रथमं भक्षय' इति ? मित्रावसुः - न हि, न हि । नायकः- किमन्यत् ? मित्रावसुः - इदमुक्तम्- ³'त्वदभिसम्पातसन्त्रासात्सहस्रशः स्रवन्ति ⁴भुजङ्गमाङ्गनानां गर्भाः, शिशवश्च पञ्चत्व⁵- मुपयान्ति। एवञ्च सन्ततिविच्छेदादस्माकं तवैव स्वार्थ- हानिर्भवेत् । यदर्थमभिपतति भवान्नागलोकं तमिह नागमेकैकमनुदिनं प्रेषयामि ।' नायकः- कष्टमेवं रक्षिता नागराजेन पन्नगाः ।