नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 190, कुल 309 में से
संदर्भ में पढ़ेंजिह्वासहस्रद्वितयस्य¹ मध्ये नैकापि सा तस्य किमस्ति जिह्वा। एकाहिरक्षार्थमहिद्विषेऽद्य दत्तो मयात्मेति यया ब्रवीति ॥५॥ मित्रावसुः- प्रतिपन्नं तत् पक्षिराजेन — इत्येष भोगिपतिना विहितव्यवस्थो² यान् भक्षयत्यहिपतीन् पतगाधिराजः। यास्यन्ति यान्ति च गताश्च दिनैर्विवृद्धिं, तेषाममी तुहिनशैलरुचोऽस्थिकूटाः ॥६॥ नायकः- आश्चर्यम् !!! सर्वाशुचिनिधानस्य कृतघ्नस्य³ विनाशिनः । शरीरकस्यापि⁴ कृते मूढाः पापानि कुर्वते ॥७॥ श्लोक नं०: ५, अन्वयः — किं जिह्वासहस्रद्वितयस्य मध्ये तस्य एका अपि सा जिह्वा नास्ति, यया (स) ब्रवीति — "एकाहिरक्षार्थम् , अहिद्विषे मया आत्मा दत्तः” इति। श्लोक नं०: ६, अन्वयः— इति भोगपतिना विहितव्यवस्थः एष पतगाधिराजः यान् अहिपतीन् भक्षयति तेषां तुहिनशैलरुचः अमी अस्थिकूटाः दिनैः विवृद्धिं गताः, यान्ति च, यास्यन्ति च" श्लोक नं०: ७, अन्वयः— सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः शरीरकस्यापि कृते मूढाः पापानि कुर्वते :