भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 192, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 192

( १६४ ) अहो ! कष्टमनवसानेयं$^1$ विपत्तिर्नागानाम् । (आत्मगतम्) अपि शक्नुयामहं स्वशरीरसमर्पणेन एकस्यापि नागस्य प्राणपरिरक्षां कर्तुम् । [ततः प्रविशति प्रतिहारः] प्रतीहारः- आरूढोऽस्मि गिरिशिखरं, यावन्मित्रावसुमन्वि- ष्यामि । (परिक्रम्य) अयं मित्रावसुर्जामातुः समीपे तिष्ठति । (उपसृत्य) विजयेतां कुमारौ । मित्रावसुः- सुनन्द ! किं निमित्तमिहागमनम् ? प्रतीहारः- (कर्णे कथयति) मित्रावसुः- कुमार ! तातो मामाह्वयति । नायकः गम्यताम् । मित्रावसुः- कुमारेणापि बहुप्रत्यवायेऽस्मिन्$^2$ प्रदेशे न चिरं स्थातव्यम् ! [इति निष्क्रान्तः] नायकः- यावदहमप्यस्माद्गिरिशिखरादवतीर्य समुद्रतटम- वलोकयामि । [परिक्रामति] [नेपथ्ये]- हा पुत्तअ संखचूड ! कहं वावादिअमाणो अज्ज हा पुत्रक$^3$ शङ्खचूड़ ! कथं व्यापायमानोऽद्य किल तुमं मए पेक्खिदव्वो ? किल त्वं मया प्रेक्षितव्यः ? नायकः-(आकर्ण्य) अये योषित इवार्त्तप्रलापः । 'केयं ! कुतो वास्या भयमिति स्फुटीकरिष्ये । (परिक्रामति)