भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 196, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 196

°( १७० ). मालापः। कदाचिदत एवास्याभिव्यक्तिर्भविष्यति। तद्विटपान्तरितस्तावच्छृणोमि [ तथा करोति ] किङ्करः-(सास्रम् कृताञ्जलिः) कुमाल संखचूड ! एसो कुमार शङ्खचूड ! 'एष सामिणो आदेशो त्ति करित्र ईरिसं णिट्ठुरं मन्तीयदि । स्वामिन आदेश' इति कृत्वा ईदृशं निष्ठुरं मन्त्र्यसे । शङ्खचूडः- भद्र ! कथय । किङ्करः- नागलाओ वासुई आणवेदि— नागराजो वासुकिराज्ञापयति— शङ्खचूडः-(शिरस्यञ्जलिं बद्ध्वा सादरम्) किमाज्ञापयति देवः? किङ्करः- 'एदं लत्तंसुअजुअलं परिहित्र आलुह वज्झसिलं इदं रक्तांशुकयुगलं परिधाय आरोह वध्यशिलां, जेण लत्तंसुअं उवलक्खित्र गलुडो आहालइस्सदित्ति। येन रक्तांशुकमुपलक्ष्य¹ गरुड़ आहारयिष्यति इति । नायकः — (श्रुत्वा) कथमसौ वासुकिना परित्यक्तः ? किङ्करः— कुमाल ! गेण्ह एदं वसणजुअलं । कुमार ! गृहाणैतद्वसनयुगलम् । [ इत्यर्पयति ] शङ्खचूडः-(सादरम्) उपनय । (गृहीत्वा) शिरसि स्वाम्यादेशः। वृद्धा- (पुत्रस्य हस्ते वाससी दृष्ट्वा सोरस्ताडम्) हा वच्छ ! हा वत्स ! एदं क्खु वज्जपाडसणिहं संभावीयदि । इदं खलु वज्रपातसन्निभं सम्भाव्यते [मोहं गता]