भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 198, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 198

( १७२ ) किङ्करः— आसण्णा गळुडस्स आगमणवेला, ता लहुं आसन्ना गरुडस्यागमनवेला, तल्लघु गच्छामि । गच्छामि । [इति निष्क्रान्तः] शङ्खचूडः— अम्ब ! समाश्वसिहि । वृद्धा— (समाश्वस्य, सास्रं) हा पुत्तअ ! हा मणोरहसदलद्ध ! हा पुत्रक ! हा मनोरथशतलब्ध ! कहिं पुण तुपं पेक्खिस्सं ? क्व पुनस्त्वां प्रेक्षिष्ये ? [कण्ठे गृह्णाति] नायकः— अहो नैर्घृण्यं¹ गरुडस्य ! अपि च— मूढाया मुहुरश्रुसन्ततिमुचः कृत्वा प्रलापान्² बहून् कस्त्राता³ तव पुत्रकेति, कृपणां दिक्षु क्षिपन्त्या दृशम् । अङ्के मातुरवस्थितं शिशुमिमं त्यक्त्वा घृणामश्नत- श्चञ्चुनैव खगाधिपस्य, हृदयं वज्रेण मन्ये कृतम् ॥६॥ शङ्खचूडः— (मातुरश्रूणि निवारयन्) अम्ब ! किमतिवैकलव्येन ? श्लोक नं० ६, अन्वयः— मूढायाः, मुहुरश्रुसन्ततिमुचः, ‘कस्त्राता तव पुत्रक’ इति बहून् प्रलापान् कृत्वा दिक्षु कृपणां दृशं क्षिपन्त्याः मातुः अङ्के अवस्थितं इमं शिशुं घृणां त्यक्त्वा अश्नतः खगाधिपस्य नैव चञ्चुः हृदयम् (अपि) मन्ये वज्रेण कृतम् ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 198, कुल 309 में से · BharatKosha