भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 206, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 206

( १८२ ) जायन्ते च म्रियन्ते च मादृशाः ¹क्षुद्रजन्तवः । परार्थे ²बद्धकक्षाणां त्वादृशामुद्भवः कुतः³ ॥ १६ ॥ तत् किमनेन निर्बन्धेन ? मुच्यतामयमध्यवसायः⁴ । नायकः—शङ्खचूड ! न मे चिराल्लब्धावसरस्य परार्थसम्पाद- नामनोरथस्यान्तरायं कर्तुमर्हसि । तदलं ⁵विकल्पेन । दीयतामेतद्वध्यचिह्नम् । शङ्खचूडः—भो महासत्त्व ! किमनेन वृथात्मायासेन ? न खलु शङ्खधवलं शङ्खपालकुलं शङ्खचूडो मलिनीकरिष्यति । यदि ते वयमनुकम्पनीयास्तदियमस्मद्विपत्तिविक्लवा न यथा जीवितं जहात्⁶, तथाभ्युपायश्चिन्त्यताम् । नायकः—किमत्र चिन्त्यते ? चिन्तित एवाभ्युपायः । स तु त्वदायत्तः । शङ्खचूडः—कथमिव ? नायकः—म्रियते म्रियमाणे या त्वयि, जीवति जीवति । तां यदिच्छसि जीवन्तीं, रक्षात्मानं ममासुभिः । १७। श्लोक; नं १६, अन्वयः— मादृशाः क्षुद्रजन्तवः जायन्ते च म्रियन्ते च । परार्थे बद्धकक्षाणां त्वादृशाम् उद्भवः कुतः ? श्लोक नंः १७, अन्वयः— या त्वयि म्रियमाणे म्रियते, (त्वयि) जीवति (च) जीवति, तां यदि जीवन्तीम् इच्छसि, (तर्हि) मम असुभिः आत्मानं रक्ष ।