नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 214, कुल 309 में से
संदर्भ में पढ़ें( १६० ) तुल्या संवर्त्तकाभ्रैः$^1$ पिद्धति गगनं पङ्क्तयः पक्षतीनां, तीरे वेगानिलोऽम्भः क्षिपति भुव इव प्लावनायाम्बुराशेः । कुर्वन् कल्पान्तशङ्कां सपदि च सभयं वीक्षितो दिग्द्विपेन्द्रै र्देहोद्योतैर्र्दशाशाः कपिशयति मुहुर्द्वादशादित्यदीप्तिः ॥२२॥ तद्यावदसौ नागच्छेच्छङ्खचूडस्तावत्त्वरिततरमिमां वध्यशिला- मारोहामि । (तथा कृत्वा, उपविश्य स्पर्शं नाटयति)— अहो स्पर्शोस्याः ! न तथा $^2$सुखयति मन्ये मलयवती मलयचन्दनरसार्द्रा अभिवाञ्छितार्थसिद्धयै वध्यशिलेयं यथाश्लिष्टा ॥२३॥ अथवा किं मलयवत्या ? नं० : २२, अन्वयः— संवर्त्तकाभ्रैः तुल्याः पक्षतीनां पङ्क्तयः गगनं पिदधति । वेगानिलः भुवः इव प्लावनाय अम्बुराशेः अम्भः तीरे क्षिपति । सपदि च कल्पान्तशङ्कां कुर्वन् दिग्द्विपेन्द्रैः सभयं वीक्षितः द्वादशा- दित्यदीप्तिः (अयं गरुडः) देहोद्योतैः दशाशाः मुहुः कपिशयति लोक नं०: २३: अन्वयः— मन्ये (यत् ) मलयचन्दनरसार्द्रा मलयवती आश्लिष्टा (मां) तथा न सुखयति यथा अभिवाञ्छितार्थसिद्धयै (आश्लिष्टा) इयं वध्यशिला ।