भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 216, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 216

( १६२ ) शयितेन मातुरङ्के विस्रब्धं¹ शैशवे न तत्प्राप्तम्। लब्धं सुखं मयास्या वध्यशिलाया यदुत्सङ्गे ॥ २४॥ तदयमागतो गरुत्मान् , यावदात्मानमाच्छादयामि। [तथा करोति] [ततः प्रविशति गरुडः] गरुडः- क्षिप्त्वा बिम्बं हिमांशोर्भयकृतवलयां संस्मरन् शेषमूर्तिं सानन्दं स्यन्दनाश्वत्रसनविचलिते पूष्णि² दृष्टोऽग्रजेन । एष प्रान्तावसज्जज्जलधरपटलात्यायतीभूतपक्षः, प्राप्तो वेलामहीध्रं मलयमहमिहग्रासगृध्नुः क्षणेन ॥२५॥ नायकः- (सपरितोषम्) - संरक्षता पन्नगमद्य पुण्यं मयार्जितं यत्स्वशरीरदानात् । भवे भवे³ तेन ममैवमेवं भूयात्परोपकाराय शरीरलाभः ॥२६॥ श्लोक नं० : २४, अन्वयः- शैशवे मातुः अङ्के विस्रब्धं शयितेन मया तत् सुखं न प्राप्तं यत् (सुखं) अस्याः वध्यशिलायाः उत्सङ्गे लब्धम् । श्लोक नं० : २५, अन्वयः - हिमांशोः बिम्बं क्षिप्त्वा, भयकृतवलयां शेषमूर्तिं संस्मरन् , स्यन्दनाश्वत्रसनविचलिते पूष्णि अग्रजेन सानन्दं दृष्टः, प्रान्तावसज्जज्जलधरपटलात्यायतीभूतपक्षः एषोऽहम् अहिग्रासगृध्नुः क्षणेन इह वेलामहीध्रं मलयं प्राप्तः । श्लोक नं० : २६, अन्वयः - अद्य स्वशरीरदानात् पन्नगं संरक्षता मया यत् पुण्यम् अर्जितं, तेन भवे भवे मम एवमेवं परोपकाराय शरीरलाभः भूयात् ।