भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 218, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 218

( १६४ ) गरुड़ः— (नायकं निर्वर्ण्य)— अस्मिन्वध्यशिलातले निपतितं शेषानहीन् रक्षितुं निर्भिद्याशनिदण्डचण्डतरया चञ्च्वाधुना वक्षसि । भोक्तुं भोगिनमुद्धरामि तरसा रक्ताम्बरप्रावृतं दिग्धं सद्यविदीर्यमाणहृदयप्रस्यन्दिनेवासृजा ॥ २७ ॥ [इत्यभिपत्य नायकं गृह्णाति ।] [नेपथ्ये पुष्पाणि पतन्ति । दुन्दुभयश्च स्वनन्ति] गरुड़ः— (ऊर्ध्वं दृष्ट्वाकर्ण्य च) अये पुष्पवृष्टिर्दुन्दुभिध्वनिश्च ! (सविस्मयं) अये ! आमोदानन्दितालिनिर्पतति किमियं पुष्पवृष्टिर्नभस्तः ? स्वर्गे किं वैष चक्रं मुखरयति दिशां दुन्दुभीनां निनादः (विहस्य) आं ज्ञातं सोऽपि मन्ये मम जवमरुताकम्पितः पारिजातः सर्वैः संवर्त्तकाभ्रैरिदमपि रसितं जातसंहारशङ्कैः ॥२८॥ श्लोक नं० २७, अन्वयः— शेषान् अहीन् रक्षितुम् अस्मिन् वध्यशिलातले निपतितं रक्ताम्बर- प्रावृतं मद्यविदीर्यमाणहृदयप्रस्यन्दिना इवासृजा दिग्धं भोगिनम् अधुना (अहं) अशनिदण्डचण्डतरया चञ्च्वा वक्षसि निर्भिद्य तरसा भोक्तुम् उद्धरामि । श्लोक नं०: २८, अन्वयः— आमोदानन्दितालिः इयं पुष्पवृष्टिः नभस्तः किं निपतति ? स्वर्गे वा दुन्दुभीनां एष निनादः दिशां चक्रं किं मुखरयति ? आं ज्ञातम् ; मन्ये मम जवमरुता कम्पितः सोऽपि पारिजातः, जातसंहारशङ्कैः सर्वैः संवर्त्तकाभ्रैः अपि इदं रसितम् ।