भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 222, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 222

अथ पञ्चमोऽङ्कः । [ततः प्रविशति प्रतीहारः] प्रतीहारः-स्वगृहोद्यानगतोऽपि स्निग्धे पापं विशङ्क्यते¹ स्नेहात्। किमु दृष्टबह्वपायप्रतिभयकान्तारमध्ये ॥ १ ॥ तथाहि, — जीमूतवाहनो जलनिधिवेलावलोकनकुतूहली निष्क्रान्तश्चिरयतीति दुःखमास्ते महाराजविश्वावसुः । समादिष्टश्चास्मि तेन, यथा—‘सुनन्द ! श्रुतं मया² सन्नि- हितगरुडप्रतिभयमुद्देशं जामाता जीमूतवाहनो गत इति । शङ्कित एवास्म्यनेन वृत्तान्तेन । तत्त्वरितं विज्ञायागच्छ ‘किमसौ स्वगृहमागतो न वा’ इति । यावत्तत्र गच्छामि । (परिक्रामन्नग्रे दृष्ट्वा) अयमसौ राजर्षिर्जीमूतवाहनस्य पिता जीमूतकेतुरुटजाङ्गणे सह स्वधर्मचारिण्या राज- पुत्र्या वध्वा च पर्युपास्यमानस्तिष्ठति । तथाहि— श्लोक नं०: १, अन्वयः — स्निग्धे स्वगृहोद्यानगतेऽपि स्नेहात् पापं विशङ्क्यते; दृष्टबह्वपाय- प्रतिभयकान्तारमध्ये किमु ? ( १६८ )