नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 224, कुल 309 में से
संदर्भ में पढ़ेंक्षौमे भङ्गवती¹ तरङ्गतरेले फेनाम्बुतुल्ये वहन् , जाह्नव्येव² विराजितः सवयसा देव्या महापुण्यया । धत्ते तोयनिधेरयं सुसदृशीं जीमूतकेतुः श्रियं, यस्यैषाऽन्तिकवर्तिनी मलयवत्याभाति वेला यथा ॥२॥ तद्यावदुपसर्पामि । [ततः प्रविशति पत्नीवधूसमेतो जीमूतकेतुः] जीमूतकेतुः- भुक्तानि यौवन सुखानि यशोऽवकीर्णं, राज्ये स्थितं³ स्थिरधिया चरितं तपोऽपि । श्लाघ्यः सुतः सुसदृशान्वयजा स्नुषेयं चिन्त्यो मया ननु कृतार्थतयाद्य मृत्युः ॥ ३ ॥ सुनन्दः - (सहसोत्सृत्य)- जीमूतवाहनस्य⁴-- जीमूतकेतुः -(कर्णौ पिधाय)- शान्तं पापं, शान्तं पापम् । श्लोक नं०: २, अन्वयः- भङ्गवती तरङ्गतरेले फेनाम्बुतुल्ये क्षौमे वहन्, जाह्नव्या एव सवयसा महापुण्यया देव्या विराजितः, अयं जीमूतकेतुः तोयनिधेः सुसदृशीं श्रियं धत्ते, यस्य अन्तिकवर्तिनी एषा मलयवती वेला यथा आभाति । श्लोक नं०: ३, अन्वयः- (मया) यौवनसुखानि भुक्तानि, यशोऽवकीर्णं, स्थिरधिया राज्ये स्थितं, तपोऽपि चरितम् ; सुतः श्लाघ्यः, इयं स्नुषा सुसदृशान्वयजा, ननु मया कृतार्थतया अद्य मृत्युः चिन्त्यः ।