भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 226, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 226

( २०२ ) वृद्धा — पडिहदं क्खु एदं अमंगलं । प्रतिहतं खल्विदममङ्गलम् । मलयवती — वेवदि मे हिअअं इमिणा दुण्णिमित्तेण । वेपते मे हृदयमनेन दुर्निमित्तेन । जीमूतकेतुः—(वामाक्षिस्पन्दनं सूचयित्वा) भद्र किं जीमूतवाहनस्य ? सुनन्दः—जीमूतवाहनस्य वार्त्तामन्वेष्टुं महाराजविश्वावसुना युष्मदन्तिकं प्रेषितोऽस्मि । 1 जीमूतकेतुः — किमसन्निहितस्तत्र मे वत्सः ? वृद्धा —(सविषादम्) महाराअ ! जइ तहिं ण सण्णिहिदो, महाराज ! यदि तत्र न सन्निहितः, ता कहिं गदो मे पुत्तओ भविस्सदि ? तत् क्व गतो मे पुत्रको भविष्यति ? 2 जीमूतकेतुः — नूनमस्मत्प्राणयात्रार्थं नितान्तं दूरं गतो भविष्यति । मलयवती —(सविषादमात्मगतम्) अहं उण अज्जउत्तं अहं पुनरार्यपुत्रम् अपेक्खन्ती अण्णं जेव्व किंपि आसंकामि । अप्रेक्षमाणा अन्यदेव किमप्याशङ्के । सुनन्दः—आज्ञापयतु महाराजः किं मया स्वामिने निवेदनीयम् ।

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 226, कुल 309 में से · BharatKosha