भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 228, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 228

( २०४ ) जीमूतकेतुः — (वामाक्षिरुस्पन्दनं सूचयन्)— जीमूतवाहन- श्चिरयतीति पर्याकुलोऽस्मि हृदयेन ।— स्फुरसि किमु दक्षिणेतर ! मुहुर्मुहुः सूचयन्ममानिष्टम् । हतचक्षुरपहतं ते स्फुरितं, मम पुत्रकः कुशली ॥ ४ ॥ (ऊर्ध्वमवलोक्य) अयमसौ त्रिभुवनैकचक्षुर्भगवान् सहस्रदीधितिः स्फुटं जीमूतवाहनस्य श्रेयः करिष्यति । (अवलोक्य सविस्मयम्)— आलोक्यमानमतिलोचनदुःखदायि, रक्तच्छटा निजमरीचिरुचो¹ विमुञ्चत् । उत्पातवाततरलीकृततारकाभ- मेतत्पुरः पतति किं सहसा नभस्तः ? ॥ ५ ॥ कथं चरणयोरेव पतितम् ? [सर्वे सविस्मयं निरूपयन्ति] जीमूतकेतुः— अये ! कथं लग्नसरसमांसकेशचूडामणिः² ! कस्य पुनरयं स्यात् ? श्लोकः नं०: ४, अन्वयः — हतचक्षुः दक्षिणेतर ! मुहुः मुहुः मम अनिष्टं सूचयन् किमु स्फुरसि ! ते स्फुरितम् अपहतम् ! मम पुत्रकः कुशली !! श्लोक नं०: ५, अन्वयः — आलोक्यमानम् अतिलोचनदुःखदायि, निजमरीचिरुचः रक्त- च्छटाः विमुञ्चत् , उत्पातवाततरलीकृततारकाभम् एतत् नभस्तः पुरः सहसा किं पतति ?

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 228, कुल 309 में से · BharatKosha