नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 230, कुल 309 में से
संदर्भ में पढ़ें( २०६ )
वृद्धा-(सविषादम्) महाराज ! पुत्तअस्स विअ मे एदं चूडारअणं। महाराज ! पुत्रकस्येव मे एतच्चूडारत्नम् । मलयवती- अम्ब ! मा एवं भण । अम्ब ! मैवं भण । सुनन्दः- महाराज ! मैवमविज्ञाय विकलवीभूः । अत्र हि- तार्क्ष्येण भक्ष्यमाणानां पन्नगानामनेककः । उल्कारूपाः पतन्त्येते शिरोमणय ईदृशाः ॥ ६ ॥ जीमूतकेतुः-देवि ! सोपपत्तिकमभिहितं सुनन्देन । कदाचि- देवमपि स्यात् । वृद्धा-सुणंदअ ! जाव इमाए वेलाए ससुरसदणं जेव्व सुनन्दक ! यावदनया वेलया श्वसुरसदनमे- आअदो मे पुत्तओ भविस्सदि । ता गच्छ, जाणिअ वागतो मे पुत्रको भविष्यति । तद्गच्छ , ज्ञात्वा लहुं संपादेहि । लघु सम्पादय⁴ । सुनन्दः — यदाज्ञापयति देवी । [इति निष्क्रान्तः] जीमूतकेतुः- देवि ! अपि नागचूडामणिः स्यात् ।
श्लोक नं०: ६, अन्वयः— तार्क्ष्येण भक्ष्यमाणानां पन्नगानाम् एते ईदृशाः उल्कारूपाः शिरो- मणयः अनेकशः पतन्ति ।