भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 232, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 232

( २०८ ) [ततः प्रविशति रक्तवस्त्रसंवीतः शङ्खचूडः] शङ्खचूडः—(सास्रम्) कष्टं भोः कष्टम् ! कुपितोऽस्मि दैवेन । गोकर्णमर्णवतटे त्वरितं प्रणम्य प्राप्तोऽस्मि तां खलु भुजङ्गवध्यभूमिम् । आदाय तं नखमुखक्षतवक्षसञ्च विद्याधरं गगनमुत्पतितो गरुत्मान् ॥ ७ ॥ (रुदन्) हा महासत्त्व ! हा परम कारुणिक ! हा निष्कारणबान्धव ! हा परदुःखदुःखित ! क्व गतोऽसि ? प्रयच्छ मे प्रतिवचनम् । (आत्मानमुद्दिश्य) हा शङ्खचूडहतक ! किं कृतं त्वया ?— नाहित्राणात्कीर्तिरेका मयाप्ता, नापि श्लाघ्या स्वामिनोऽनुष्ठिताज्ञा । दत्वात्मानं रक्षितोऽन्येन शोच्यो, हा धिक् ! कष्टं ! वञ्चितो वञ्चितोऽस्मि । ८॥ श्लोक नं०: ७, अन्वयः— अर्णवतटे गोकर्णं प्रणम्य त्वरितं तां खलु भुजङ्गवध्यभूमिं प्राप्तोऽस्मि । (परमस्मिन्नेवान्तरे) नखमुखक्षतवक्षसं च तं विद्याधरम् आदाय गरुत्मान् गगनम् उत्पतितः ॥ श्लोक नं०: ८, अन्वयः— न मया अहित्राणात् एका कीर्तिः आप्ता; नापि स्वामिनः श्लाघ्या आज्ञा अनुष्ठिता ; अन्येन आत्मानं दत्वा रक्षितः ; (अतः) शोच्यः ; हा धिक् ! कष्टम् ! वञ्चितो वञ्चितोऽस्मि ।