भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 238, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 238

( २१४ ) शङ्खचूडः—श्रूयताम्। शङ्खचूडो नाम नागः खल्वहम्। आहारार्थं वासुकिना वैनतेयाय प्रेषितः। किं बहुना विस्तरेण ! कदाचिदियं रुधिरधारापद्धतिः पांसुभिरवकीर्यमाणा दुर्लभ्यतामुपयाति। तत्संक्षेपतः कथयामि— विद्याधरेण केनापि करुणाविष्टचेतसा। मम संरक्षिताः प्राणा दत्त्वात्मानं गरुत्मते ॥११॥ जीमूतकेतुः— कोऽन्य एवं परहितव्यसनी ? वत्स ! ननु स्पष्टमेवोच्यतां जीमूतवाहनेनेति। हा हतोऽस्मि मन्दभाग्यः। वृद्धा- हा पुत्तअ ! कहं तुए एदं किदं ? हा पुत्रक ! कथं त्वयैतत्कृतम् ? मलयवती— (सास्रम्) कहं सच्चीभूदं जेव्व दुच्चिंतिदं ? कथं सत्यीभूतमेव दुश्चिन्तितम् ?. [सर्वे मोहं गच्छन्ति] शङ्खचूडः— (सास्रम्) नूनमेतौ पितरौ तस्य महासत्त्वस्य। कथमप्रियवादिना मया इमामवस्थां नीतौ। अथवा (विषादृते विषधरस्य मुखात् किमन्यन्निःसरति ? अहो श्लोक नं०: ११, अन्वयः— करुणाविष्टचेतसा केनापि विद्याधरेण गरुत्मते आत्मानं दत्त्वा मम प्राणाः संरक्षिताः।