नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 246, कुल 309 में से
संदर्भ में पढ़ें( १२२ ) -वत्सः ! अवितथैषा तव भारती भवतु । तथापि साग्नीनामेवास्माकं युक्तमनुसर्तुम् । तदनुसरतु भवान् । वयमप्यग्निशरणादग्निमादाय त्वरितमेवानुगच्छामः । [पत्नीवधूसमेतो निष्क्रान्तः ।] शङ्खचूडः - तद्यावद् गरुडमनुसरामि । (परिक्रम्य अग्रतो निर्वर्ण्य) - ^1कुर्वाणो रुधिराद्र्रचञ्चुकषणैर्दोखीरिवाद्रेस्तटीः, प्लुष्टोपान्तवनान्तरः स्वनयनज्योतिःशिकासञ्चयैः । मज्जद्वङ्ककठोरघोरनखरप्रान्तावगाढावनिः शृङ्गाग्रे मलयस्य पन्नगपुरिर्दूरादसौ दृश्यते ॥१४॥ [ततः प्रविशति आसनस्थः पुरःपतितनायको गरुडः] गरुडः - (आत्मगतम्) जन्मन. प्रभृति भुजङ्गपतीनश्नन्। नेदमाश्चर्यं मया दृष्टपूर्वं यदयं महासत्वो न केवलं न व्यथते प्रत्युत प्रहृष्ट इव किमपि दृश्यते । तथाहि- श्लोक नं०: १४, अन्वयः- रुधिराद्र्रचञ्चुकषणैः अद्रेः तटीः दोधीः इव कुर्वाणः, स्वनयनज्योतिःशिखासञ्चयैः प्लुष्टोपान्तवनान्तरः, मज्जद्वङ्ककठोरघोरनखरप्रान्तावगाढावनिः, असौ पन्नगरिपुः शृङ्गाग्रे दूरात् दृश्यते ॥