भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 248, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 248

( २२५ ) १ग्लानिर्नाधिकपीयमानरुधिरस्याप्यस्ति धैर्याम्बुधे- र्मांसोत्कर्त्तनजा रुजोऽपि वहतः प्रीत्या प्रसन्नं^२ मुखम् । गात्रं यन्न विलुप्तमेष पुलकस्तत्र स्फुटो लक्ष्यते, दृष्टिर्मुग्धोपकारिणीव निपतत्यस्यापकारिण्यपि ॥१५॥ अतः कुतूहलमेव जनितमस्या नया धैर्यवृत्त्या । भवतु, न भक्षयाम्येवैनम् । पृच्छामि तावत्कोऽयमिति [अपसर्पति] नायकः — (मांसोत्कर्त्तन विमुखमुपलक्ष्य) — — शिरामुखैः स्यन्दत^३ एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत्, किं भक्षणात्त्वं विरतो गरुत्मन् ॥१६॥ गरुडः — (आत्मगतम्) आश्चर्यमाश्चर्यम् ! कथमस्यामप्य- वस्थायामेवमूर्जितमभिधत्ते !! (प्रकाशम्) — अहो महासत्त्व ! श्लोक न०: १५, अन्वय: — (मया) अधिकपीयमानरुधिरस्य अपि (अस्य) धैर्याम्बुधेः ग्लानिः न अस्ति, मांसोत्कर्त्तनजाः रुजः वहतः अपि (अस्य) मुखं प्रीत्या प्रसन्नम् । यत् गात्रं न विलुप्तं तत्र एष पुलकः स्फुटो लक्ष्यते; मयि अपकारिण्यपि अस्य दृष्टिः उपकारिणि इव निपतति ॥ श्लोक न०: १६, अन्वयः — (मम) शिरामुखैः अद्यापि रक्तं स्यन्दते एव । अद्यापि मम देहे मांसमस्ति तव तृप्तिमपि न पश्यामि । तावत् गरुत्मन् ! किं त्वं (ममशरीर-) भक्षणात् विरतः ?