नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 252, कुल 309 में से
संदर्भ में पढ़ें( २२८ ) आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नालोक्यते कञ्चुको जिह्वे जल्पत एव मे न गणिते नाम त्वया द्वे अपि ? तिस्रस्तोत्रविषाग्निधूमपटलव्याजिह्मरत्नत्विषो नैता दुःसहशोकफूत्कृतमरुत्स्फीताः फणाः पश्यसि? ॥१८॥ गरुडः- (उभौ निरूप्य, शङ्खचूडस्य फणां दृष्ट्वा)-तत्कः खल्वयं मया व्यापादितः ? शङ्खचूडः-विद्याधरवंशतिलको जीमूतवाहनः । कथमकारु- णिकेन त्वया इदमनुष्ठितम् ? गरुडः - (स्वगतम्) अये, अयमसौ विद्याधरकुमारो जीमूतवाहनः ! मेरौ मन्दरकन्दरासु हिमवत्सानौ महेन्द्राचले कैलासस्य शिलातलेषु मलयप्राग्भारदेशेष्वपि दिक्कुञ्जेषु च तेषु बहुशो यस्य श्रुतं तन्मया लोकालोकविचारिचारणगणैरुद्गीयमानं यशः ॥१६॥ श्लोक नं०: १८, अन्वयः— वक्षसि स्वस्तिकलक्ष्म आस्ताम् तनौ । कञ्चुको नालोक्यते । जल्पत एव मे द्वे जिह्वे अपि त्वया न गणिते नाम ? तीव्रविषा- ग्निधूमपटलव्याजिह्मरत्नत्विषः, दुःसहशोकफूत्कृतमरुत्स्फीताः एताः तिस्रः फणाः (अपि किं त्वं) न पश्यसि ? श्लोक नं०: १६, अन्वयः— पश्य तत् यशः मेरौ, मन्दरकन्दरासु, हिमवत्सानौ, महेन्द्राचले, कैलासस्य शिलातलेषु, मलयप्राग्भारदेशेषु अपि, तेषु दिक्कुञ्जेषु च लोकालोकविचारिचारणगणैः उद्गीयमानं मया श्रुतम् ।