नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 254, कुल 309 में से
संदर्भ में पढ़ें( २३० ) सर्वथा महत्यंहःपङ्के निमग्नोऽस्मि । नायकः— भो फणिपते ! किमेवमुद्विग्नोऽसि ? शङ्खचूडः— किमस्थानमिदमावेगस्य? स्वशरीरेण शरीरं ताद्यत् परिरक्षतो मदीयमिदम् । युक्तं नेतुं भवता पातालतलादपि तलं माम् ॥२०॥ गरुडः—अये ! करुणार्द्रचेतसानेन महात्मनास्मद्ग्रासगोचर- पतितस्यास्य फणिनः प्राणान् रक्षितुं स्वदेह आहारार्थ- मुपनीतः। तन्महदकृत्यमेतन्मया कृतम् । किं बहुना, बोधिसत्त्व एवायं व्यापादितः । तस्य महतः पापस्याग्नि- प्रवेशादृते नान्यत् प्रायश्चित्तं पश्यामि। तत् क्व नु खलु वह्निं समासादयामि ? (दिशः पश्यन्—) अये ! अमी केऽपि गृहीताग्नय इत एवागच्छन्ति। तद्याव- देतान् प्रतिपालयामि । शङ्खचूडः — कुमार ! पितरौ ते प्राप्तौ । नायकः— (ससम्भ्रमम् ) शङ्खचूड ! समुपविश्यानेनोत्तरीये- णाच्छादितशरीरं कृत्वा धारय माम् । अन्यथा कदा- चिदीदृशं सहसैवं मां दृष्ट्वा पितरौ जीवितं जहाताम् ।
श्लोक नं०: २०, अन्वयः— स्वशरीरेण ताद्यत् मदीयम् इदं शरीरं परिरक्षता भवता मां पातालतलादपि तलं नेतुं युक्तम् ॥