भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 256, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 256

( २३२ ) [शङ्खचूडः पार्श्वपतितमुत्तरीयं गृहीत्वा तथा करोति।] [ततः प्रविशति पत्नीवधूसमेतो जीमूतकेतुः।] जीमूतकेतुः- (सास्रम्) हा पुत्र जीमूतवाहन ! - आत्मीयः पर इत्ययं खलु कुतः सत्यं कृपायाः क्रमः ? किं रक्षामि बहून् किमेकमिति ते जाता न चिन्ता कथम् ? तार्क्ष्यात्त्रातुमहिं स्वजीवितपरित्यागं त्वया कुर्वता, येनात्मा पितरौ वधूरिति हतं निःशेषमेतत्कुलम् ॥२१॥ वृद्धो- (मलयवतीमुद्दिश्य) जादे ! विरम मुहुत्तअं । अविरत- जाते ! विरम मुहूर्त्तकम् । अविरत- णिवडंतबाष्पबिंदूहिं अहिहवीअदि अअंअग्गी । निपतद्बाष्पबिन्दुभिर् अभिभूयतेऽयमग्निः । [सर्वे परिक्रामन्ति] जीमूतकेतुः- हा पुत्र जीमूतवाहन ! गरुडः- (श्रुत्वा) 'हा पुत्र जीमूतवाहन ! इति ब्रवीति। तद् व्यक्तमयमस्य पिता। तत् किमेतदीयेनाग्निना आत्मान- मुद्दीपयामि ? न शक्नोम्यस्य पुत्रघाताल्लज्जया मुखं श्लोक नं ०: २१, अन्वयः - अयं आत्मीयः (अयं) परः इति कृपायाः क्रमः कुतः ? (तत्) खलु सत्यम्। (परं) किं बहून् रक्षामि, किमेकं (वा) इति चिन्ता ते कथं न जाता ? येन तार्क्ष्यात् अहिं स्वजीवितपरित्यागं कुर्वता त्वया आत्मा पितरौ वधूरिति निःशेषमेतत्कुलं हतम् ।