नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 258, कुल 309 में से
संदर्भ में पढ़ें( २३४ ) दर्शयितुम् । अथवा किमग्निहेतोः पर्याकुलोऽस्मि ? समीपस्थ एवास्मि जलनिधेः । तद्यावदिदानीम्— ^1ज्वालाभङ्गैस्त्रिलोकीग्रसनरसचलत्कालजिह्वाग्रकल्पैः सर्पद्भिः सप्त सर्पिष्कणमिव कवलीकर्तुमीशे^2 समुद्रान् । स्वैरेवोत्पातवातप्रसरपटुतरैर्धुक्षिते पक्षवातै- रस्मिन् कल्पावसानज्वलनभयकरे वाडवाग्नौ पतामि ॥२२॥ [ इत्युत्थातुमिच्छति ] ^3नायकः- भोः पक्षिराज ! अलमनेनाध्यवसायेन । नायं प्रतीकारोऽस्य पाप्मनः । गरुडः- (जानुभ्यां स्थित्वा कृताञ्जलिः) भो महात्मन् ! कस्तर्हि कथ्यताम् ? नायकः- प्रतिपालय क्षणमेकम् । पितरौ मे प्राप्तौ । यावदेतौ प्रणमामि । गरुडः- एवं क्रियताम् । जीमूतकेतुः- (दृष्ट्वा सहर्षम्)- देवि ! दिष्ट्या वर्द्धसे । अयमसौ वत्सो जीमूतवाहनो न केवलं ध्रियते, प्रत्युत पुरः कृताञ्जलिना ^4गरुडेन शिष्येणेव पर्युपास्यमानस्तिष्ठति । श्लोक न० : २२, अन्वयः- त्रिलोकीग्रसनरसचलत्कालजिह्वाग्रकल्पैः सर्पद्भिः ज्वालाभङ्गैः सप्तसमुद्रान् सर्पिष्कणमिव कवलीकर्त्तुमीशे उत्पातवातप्रसर पटुतरैः स्वैरेव पक्षवातैः धुक्षिते कल्पावसानज्वलनभयकरे अस्मिन् वाडवाग्नौ पतामि :