नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 260, कुल 309 में से
संदर्भ में पढ़ें( २३६ ) वृद्धा - महोराअ ! किअत्थम्हि । अक्खदसरीरस्स एव्व महाराज ! कृतार्थास्मि । अक्षतशरीरस्यैव पुत्तअस्स मुहं दिट्ठं । पुत्रकस्य मुखं दृष्टम् । मलयवती- अहं अज्जउतं पेक्खन्ती वि असंभावणीयं ति अहमार्यपुत्रं प्रेक्षमाणापि असम्भावनीयमिति करिअ ण पत्तिआमि । कृत्वा न प्रत्येमि । जीमूतकेतुः - (उपसृत्य) वत्स ! एह्येहि, परिष्वजस्व माम् । [ नायकः उत्थातुमिच्छन् पतितोत्तरीयो मूर्च्छति ] शङ्खचूडः- कुमार, समाश्वसिहि, समाश्वसिहि । जीमूतकेतुः-- हा वत्स ! कथं मां दृष्ट्वापि परित्यज्य गतोऽसि? वृद्धा--हा पुत्तअ ! कहं वाआमेत्तकेण वि, तुए ण संभाविदम्हि ? हा पुत्रक ! कथं वाङ्मात्रेणापि त्वया न सम्भावितास्मि ? मलयवती- हा अज्जउत्त ! कहं गुरुअणो वि दे ण पेक्खिदव्वो ? हा आर्यपुत्र ! कथं गुरुजनोऽपि ते न प्रेक्षितव्यः? (सर्वे मोहं गच्छन्ति) शङ्खचूडः — हा शङ्खचूडहतक ! कथं गर्भ एव न विपन्नो- ऽसि, येनैवं क्षणे क्षणे, मरणातिगं दुःखमनुभवसि ? गरुडः - सर्वमिदं मम नृशंसस्यासमीक्ष्यकारिताया विजृम्भि- तम् । तदेवं तावत् करोमि । (पक्षाभ्यां वीजयन् )—