नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 272, कुल 309 में से
संदर्भ में पढ़ें( २४८ ) वृद्धा— हा ! किं णु क्खु एत्थं वत्तदि ? (सोरस्ताडम्) हा ! किं नु खल्वेवं वर्त्तते ? परित्ताअह परित्ताअह । एसो क्खु मे पुत्तओ विवज्जइ । परित्रायध्वं परित्रायध्वम् । एष खलु मे पुत्रको विपद्यते । मलयवती—हा अज्जउत्त ! परिच्चइडुकामो विअ लक्खीअसि । हा आर्यपुत्र ! परित्यक्तुकाम इव लक्ष्यसे । नायकः— (अञ्जलिं कर्तुमिच्छन्) शङ्खचूड ! समानय मे हस्तौ । शङ्खचूडः— (कुर्वन्) कष्टम् !! अनाथीकृतं जगत् । नायकः— (अर्द्धोन्मीलितचक्षुः पितरौ पश्यन्) तात ! अम्ब ! अयं मे पश्चिमः प्रणामः । यतः— गात्राण्यमूनि न वहन्ति सचेतनत्वं श्रोत्रं स्फुटाक्षरपदां न गिरः शृणोति । कष्टं निमीलितमिदं सहसैव चक्षु- र्हा तात ! यान्ति विवशस्य ममासवोऽमि ॥३०॥ ¹ अथवा किमनेन प्रलपितेन । [“संरक्षता पन्नगमद्य पुण्यम्”—इत्यादि पूर्वोक्तं श्लोकंपठित्वा पतति] श्लोक नं०: ३०, अन्वयः— (मम) अमूनि गात्राणि सचेतनत्वं न वहन्ति । श्रोत्रं स्फुटाक्षर- पदां गिरः न शृणोति । कष्टम्, इदं चक्षुः सहसैव निमीलितम् । हा तात [......] असवः यान्ति ॥