नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 280, कुल 309 में से
संदर्भ में पढ़ें( २४६ ) देवि, किमपरं रुद्यते ? तदुत्तिष्ठ चितायामारोहामः । [सर्वे उत्तिष्ठन्ति] मलयवती-(बद्धाञ्जलिरूर्ध्वं पश्यन्ति)-भअवदि गौरि ! भगवति गौरि ! तुए आणत्तं जहा 'विज्जाहरचक्कवट्टी भट्ठा दे भविस्सदि' त्ति त्वयाज्ञप्तं¹, यथा—विद्याधरचक्रवर्त्ती भर्त्ता ते भविष्यतीति । ता कहं मम मन्दसग्गाए किदे तुमं पि अलीअवादिणी संवुत्ता ? तत्कथं मम मन्दभाग्यायाः ²कृते त्वमप्यलीकवादिनी संवृत्ता ?. [ततः प्रविशति ससम्भ्रमा गौरी] गौरी-महाराज जीमूतकेतो ! न खलु न खलु साहसम्- नुष्ठातव्यम् । जीमूतकेतु :-अये कथममोघदर्शना गौरी ? गौरी-(मलयवतीमुद्दिश्य)-वत्से कथमहमलीकवादिनी भवेयम् ? (नायकमपसृत्य कमण्डलुजलेनाभ्युक्षन्ती)- निजेन जीवितेनापि जगतामुपकारिणः । परितुष्टास्मि ते वत्स ! जीव जीमूतवाहन ॥३४॥ [नायकः उत्तिष्ठति] जीमूतकेतु:-(सहर्षं) देवि दिष्ट्या वर्धसे ! प्रत्युज्जीवितो वत्सः। श्लोक नं०: ३४, अन्वयः- हे वत्स जीमूतवाहन ! निजेन जीवितेनापि जगतामुपकारिणः ते परितुष्टास्मि । जीव ।