भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 282, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 282

( २३८ )

वृद्धा-भअवदीए पसादेण । [¹ भगवत्याः प्रसादेन । [उभौ गौर्याः पादयोः पतित्वा नायकमालिङ्गतः] मलयवती-(सहर्षं)-दिट्ठिआ पच्चुज्जीविदो अज्जउत्तो । दिष्ट्या प्रत्युज्जीवित आर्यपुत्रः । [गौर्याः पादयोः पतति] नायकः-(गौरीं दृष्ट्वा बद्धाञ्जलिः) भगवति ! अभिलाषिताधिकवरदे¹ ! प्रणिपतितजनार्त्तिहारिणि² ! शरण्ये ! चरणौ नमाम्यहं ते विद्याधर देवते ! गौरि ! ॥३५॥ [इति गौर्याः पादयोः पतति] [सर्वे ऊर्ध्वं पश्यन्ति] । जीमूतकेतुः-अये ! कथममश्रा. वृष्टिः ! भगवति किमेतत् ? गौरी-राजन् जीमूतकेतो ! जीमूतवाहनं प्रत्युज्जीवयितुमेतां- श्वास्थिशेषानुरगपतीन् समुपजातपश्चात्तापेन पक्षिपतिना देवलोकादियममृतवृष्टिः पातिता³। (अङ्गुल्या निर्दिश्य)- किं न पश्यति भवान्⁴ ?— ———————————————————————————— श्लोक नं०, ३५, अन्वयः— अभिलषिताधिकवरदे ! प्रणिपतितजनार्त्ति- हारिणि ! शरण्ये ! विद्याधरदेवते ! गौरि ! अहं चरणौ ते नमामि ।