भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 284, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 284

( २६० ) सम्प्राप्ताखण्डदेहाः स्फुटफणमणिभिर्भासुरैरुत्तमाङ्गै- र्जिह्वाकोटिद्वयेन क्षितिममृतरसास्वादलोभाल्लिहन्तः सम्प्रत्याबद्धवेगा मलयगिरिसरिद्वारिपूरा इवामि वक्रैः प्रस्थानमार्गैर्विषधरपतयस्तोयराशि विशन्ति ॥३६॥ (नायकमुद्दिश्य) वत्स जीमूतवाहन ! न त्वं जीवितदान- मात्रस्यैव योग्यः। तदयमपरस्ते प्रसादः- हंसांसाहतहेमपङ्कजरजः सम्पर्कपङ्कोज्झितै- रुत्पन्नैर्मम मानसादुपनतैस्तोयैर्महापावनैः । स्वेच्छानिर्मितरत्नकुम्भनिहितैरेषाभिषिच्य स्वयं त्वां विद्याधरचक्रवर्तिनमहं प्रीत्या करोमि क्षणात् ॥३७॥ श्लोक नं०: ३६, अन्वयः- सम्प्राप्ताखंडदेहः, स्फुटफणमणिभिर्भासुरैरुत्तमाङ्गैः, अमृतरसा- स्वादलोभात् जिह्वाकोटिद्वयेन क्षितिं लिहन्तः, अमी विषधरपतयः सम्प्रति मलयगिरिसरिद्वारिपूरा इव आबद्धवेगाः वक्रैः प्रस्थानमार्गैः तोयराशिं विशन्ति । श्लोक नं० ३७, अन्वयः- हंसांसाहतहेमपङ्कजरजःसम्पर्कपङ्कोज्झितैः, मम मानसात् उत्पन्नैः, स्वेच्छानिर्मितरत्नकुम्भनिहितैः उपनतैः महापावनैः तोयैः एषा अहं स्वयं त्वाम् अभिषिच्य प्रीत्या क्षणात् विद्याधरचक्रवर्तिनं करोमि ।