नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 288, कुल 309 में से
संदर्भ में पढ़ें( २६४ ) तथापीदमस्तु - [भरत वाक्यम्] - वृष्टिं हृष्टशिखण्डिताण्डवभृतो मुञ्चन्तु काले घनाः, कुर्वन्तु प्रतिरूढसन्ततहरिच्छस्योत्तरीयां क्षितिम् । चिन्वानाः सुकृतानि वीतविपदो निर्मत्सरैर्मानसै— मोदन्तां घनबद्धबान्धवसुहृद्गोष्ठीप्रमोदाः प्रजाः ॥४०॥ अपि च— शिवमस्तु सर्वजगतां परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥४१॥ [इति निष्क्रान्ताः सर्वे] ॥ इति पञ्चमोऽङ्कः ॥ ॥ इति नागानन्दम् ॥ श्लोक नं०: ४०, अन्वयः — हृष्टशिखण्डिताण्डवभृतो घनः काले वृष्टिं मुञ्चन्तु; प्रतिरूढ- सन्ततहरिच्छस्योत्तरीयां क्षितिं कुर्वन्तु; प्रजाः वीतविपदः निर्मत्सरैः मानसैः सुकृतानि चिन्वानाः घनबद्धबान्धवसुहृद्गोष्ठी- प्रमोदाः मोदन्ताम् ॥ श्लोक नं०: ४१, अन्वयः — सर्वजगतां शिवमस्तु; भूतगणाः परहितनिरता भवन्तु; दोषाः नाशं प्रयान्तु; लोकः सर्वत्र सुखी भवतु ॥