नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 36, कुल 309 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः नान्दी:- ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षुः क्षणं पश्यान¹ङ्गशरातुरं जनमिमं त्राताऽपि नो² रक्षसि । मिथ्याकारुणिकोऽसि निर्घृ³णतरस्त्वत्तः कुतोऽन्यः पुमान् सेर्ष्यं मारवधूभिरित्यभिहितो बुद्धो जिनः⁴ पातु वः ॥१॥ अपि च-- ⁵ कामेनाकृष्य चापं हतपटुपटहावल्गिभिर्मारवीरै— र्भ्रूभङ्गोत्कम्पजृम्भास्मितचलितदृशा दिव्यनारीजनेन । सिद्धैः ⁶प्रह्वोत्तमाङ्गैः पुलकितवपुषा विस्मयाद्वासवेन,⁷ ‘ध्यायन् बोधेरवाप्तावचलित’ इति वः पातु दृष्टो मुनीन्द्रः॥२॥ श्लोक नं० १, अन्वयः — ‘ध्यानव्याजमुपेत्य कां चिन्तयसि ? क्षणं चक्षु उन्मील्य अनंगशरातुरमिमं जनं पश्य । त्राताऽपि नो रक्षसि ? मिथ्याकारुणिकोऽसि । त्वत्तः निर्घृणतरः अन्यः पुमान् कुतः ?’ इति मारवधूभिः सेर्षम् अभिहितः बुद्धो जिनः वः पातु । श्लोक नं० २, अन्वयः — (यः) कामेन चापमाकृष्य (दृष्टः), मारवीरैः हतपटुपटहावल्गिभिः (दृष्टः), दिव्यनारीजनेन भ्रूभङ्गोत्कम्पजृम्भास्मितचलित- दृशा (दृष्टः) सिद्धैः प्रह्वोत्तमाङ्गैः (दृष्टः), वासवेन विस्मयात् पुलकितवपुषा दृष्टः, बोधेरवाप्तौ अचलितः ध्यायन् इति (सः) मुनीन्द्रः वः पातु ।