भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 38, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 38

( ४ ) (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः—अलमतिविस्तरेण । अद्याहमिन्द्रोत्सवे सबहुमानमाहूय नानादिग्देशागतेन राज्ञः श्रीहर्षदेवस्य पादपद्मोपजीविना राजसमूहेनोक्तः—‘यत्तदस्मत्स्वामिना श्रीहर्षदेवेनापूर्व¹वस्तुरचनाऽलंकृतं विद्याधरजातकप्रतिबद्धं ‘नागानन्दं’ नाम नाटकं कृतमित्यस्माभिः श्रोत्रपरम्परया श्रुतं, न च प्रयोगतो दृष्टम् । तत्तस्यैव राज्ञः सकलजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या यथावत्प्रयोगेणाद्य त्वया नाटयितव्यमिति । तद्यावदिदानीं नेपथ्यरचनां² कृत्वा यथाऽभिलषितं सम्पादयामि । (परिक्रम्यावलोक्य च) आवर्जितानि³ च सकलसामाजिकमनांसीति मे निश्चयः । यतः— श्री हर्षो निपुणः कविः, परिषद्प्येषा गुणग्राहिणी,⁴ लोके हारि च बोधिसत्त्व⁵चरितं, नाट्ये च दक्षा वयम्। वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं,⁶ किं पुन- र्मद्भाग्योपच⁷यादयं समुदितः सर्वो गुणानां गणः ॥ ३ ॥ श्लोक नं० ३, अन्वय :— श्री हर्षो निपुणः कविः । एषा परिषदपि गुणग्राहिणी । बोधिसत्त्वचरितं च लोके हारि । वयं च नाट्ये दक्षाः । इह तु एकैकमपि वस्तु वाञ्छितफलप्राप्तेः पदम् । किं पुनः मद्भाग्योपचयाद् गुणानां सर्वो गणः अयं समुदितः ॥