भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 40, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 40

( ६ ) तद्यावदहं गृहं गत्वा गृहिणीमाहूय सङ्गीतकमनुतिष्ठामि । (परिक्रम्य नेपथ्याभिमुखमवलोक्य) इदमस्मद्गृहं । यावत् प्रविशामि । (प्रविश्य) आर्ये, इतस्तावत् । द्विजपरिजनबन्धुहिते ! मद्भवन्तटाकहंसि ! मृदुशीले ! परपुरुषचन्द्रकमलिन्यार्ये ! कार्यादितस्तावत् ॥ ४ ॥ नटी–(प्रविश्य सास्रम् ) अज्ज ! इअम्हि मन्दभग्गा । आणवेदु आर्ये ! इयमस्मि मन्दभाग्या । आज्ञापयतु अज्जउत्तो को णिओओ अणुचिट्ठीअदु त्ति । आर्यपुत्रः को नियोगोऽनुष्ठीयतामिति । सूत्रधारः— (नटीमवलोक्य) आर्ये ! नागानन्दे नाट- यितव्ये किमिदमकारणमेव रुद्यते ? नटी–अज्ज ! कहं ण रोइस्सं ? यदो दाव तादो आर्ये ! कथं न रोदिष्यामि, यतस्तावत् तातः अज्जाए सह थविरंभावं १ जाणिअ अदूरजादणिव्वेदो २ आर्य्यया सह स्थविरभावं ज्ञात्वा अदूरजातनिर्वेदः ‘कुडुम्बभारुव्वहणजोग्गो दाणीं तुमं’ त्ति हिअए कुटुम्बभारोद्वहनयोग्य इदानीं त्वमिति हृदये श्लोक नं० ४, अन्वय :— द्विजपरिजनबन्धु हिते, मद्भवन्तटाकहंसि, मृदुशीले, परपुरुषचन्द्रकमलिनि, आर्ये, कार्याद् इतस्तावत् ।