भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 42, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 42

( ८ ) वितक्किअ तवोवणं गदो । वितर्क्य तपोवनं गतः सूत्रधार :— (सनिर्वेदम्) अये ! कथं मां परित्यज्य तपोवनं प्रयातौ पितरौ तत्किमिदानीं युज्यते ? (विचिन्त्य) अथवा कथमहं गुरुचरण परिचर्य्या- सुखं परित्यज्य गृहे तिष्ठामि ? कुतः— पित्रोर्विधातुं शुश्रूषां त्यक्त्वैश्वर्यं क्रमागतम् । वनं याम्यहमप्येष, यथा जीमूतवाहनः ॥ ५ ॥ (इति निष्क्रान्तौ) [आमुखम्] [ततः प्रविशति नायको विदूषकश्च] नायक :— (सनिर्वेदं) वयस्य आत्रेय, रागस्यास्पदमित्यवैमि, न हि मे ध्वंसीति १ न प्रत्ययः कृत्याकृत्यविचारणासु विमुखं को वा न वेत्ति क्षितौ । एवं निन्द्यमपीदमिन्द्रियवशं प्रीतयै भवेद्यौवनं, भक्त्या याति यदीत्थमेव पितरौ शुश्रूषमाणस्य मे ॥६॥ नं० ५, अन्वय :— क्रमागतम् ऐश्वर्यं त्यक्त्वा पित्रोः शुश्रूषां विधातुम् अहमपि वनं यामि यथा एष जीमूतवाहनः ॥ श्लोक नं०६, अन्वय :— (यौवनं) रागस्य आस्पदम् इति अवैमि। नहि ध्वंसि इति न मे प्रत्ययः । (एतत्) कृत्याकृत्यविचारणासु विमुखं (इति) क्षितौ को वा न वेत्ति । एवम् इन्द्रियवशं निन्द्यमपि इदं यौवनं मे प्रीतयै भवेत् यदि इत्थमेव भक्त्या पितरौ शुश्रूषमाणस्य याति ॥