भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 46, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 46

( १२ ) विदूषक :—(आत्मगतम् ) अहो से गुरुअणसुस्सूसाणुराओ ! (विचिन्त्य) अहो, अस्य गुरुजनशुश्रूषाऽनुरागः ! भोदु ता एदं पि दाव, अण्णं चित्त भणिस्सं । (प्रकाशं) भवतु, तदेतदपि तावत् , अन्यदिव भणिष्यामि । भो वयस्स ! ण क्खु अहं रज्जसोक्खं ज्जेव केवलं भो वयस्य ! न खल्वहं राज्यसुखमेव केवलम्— उद्दिसिअ एवं भणामि, अण्णं पि दे करणीज्जं अत्थि ज्जेव । उद्दिश्य एवं भणामि, अन्यदपि ते करणीयमस्त्येव। नायकः-(सस्मितं) वयस्य! ननु कृतमेव यत्करणीयम् । पश्य- न्याय्ये वर्त्मनि योजिताः प्रकृतयः१, सन्तः सुखस्थापिताः नीतो बन्धुजनस्तथात्मसमतां, राज्ये च रक्षा कृता । दत्तो दत्तमदोरथाधिकफलः कल्पद्रु मोऽप्यर्थिने, किं कर्तव्यमतःपरं, कथय वा यत्ते स्थितं चेतसि ॥८॥ विदूषकः—भो वयस्स ! अचन्तसाहसिओ मदङ्गदेवहदओ दे भो वयस्य, अत्यन्तसाहसिको मातङ्गदेवहतकस्ते२ श्लोक नं० ८, अन्वयः — (मया) प्रकृतयः न्याय्ये वर्त्मनि योजिताः ; सन्तः सुखं स्थापिताः ; तथा बन्धुजनः आत्मसमतां नीतः ; राज्ये च रक्षा कृता; दत्तमदोरथाधिकफलः कल्पद्रु मोऽपि अर्थिने दत्तः । कथय वा अतः परं (मया) किं कर्तव्यं यत् ते चेतसि स्थितम् (अस्ति)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 46, कुल 309 में से · BharatKosha