भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 48, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 48

( १४ ) पडिवक्खो, तस्सिं अ समासण्णट्ठिदे पहाणामच्च- प्रतिपक्षः¹ ; तस्मिंश्च समासन्नस्थिते प्रधानामात्य - समधिद्विदं पि ण तुए विणा रज्जं सुथिरं त्ति पडिभादि । समधिष्ठितमपि न त्वया विना राज्यं सुस्थिरमिति प्रतिभाति । नायक.- धिङ् मूर्ख ! मतङ्गो राज्यं हरिष्यतीति शङ्कसे ? विदूषकः- अध इं । अथ किम् । नायकः-यद्येवं ततः किम् ? ननु स्वशरीरात्प्रभृति² सर्वं परार्थमेव मया परिपाल्यते । यत्तु स्वयं न दीयते तत्तातानुरोधात् । तत् किमनेनावस्तुनाचिन्तनेन ? वरं ताताज्ञैवानुष्ठिता । आज्ञापितश्चास्मि तातेन यथा 'वत्स जीमूतवाहन ! बहुदिवसपरिभोगेन³ दूरीकृतकुशकुसुमम् उपभुक्तमूलफलकन्दनीवार- प्रायमिदं⁴ स्थानं वर्तते । तदितो मलयपर्वतं गत्वा किञ्चित्तस्मिन्निवासयोग्यमाश्रमपदं निरूपय' इति । तदेहि मलयपर्वतमेव गच्छावः । विदूषकः-जं भवं आणावेदि एदु भवं । यद्भवानाज्ञापयति । एतु भवान् । (इत्युभौ परिक्रामतः)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 48, कुल 309 में से · BharatKosha