भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 52, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 52

( १८ ) ^1माद्यद्दिग्गजगण्डभित्तिक^2घषणैर्भग्नस्रवच्चन्दनः । क्रन्दत्कन्दरगह्वरो जलनिधेरास्फालितो^3 वीचिभिः। पादालक्तरक्तमौक्तिकशिलः सिद्धाङ्गनानां गतैः, दृष्टोऽयं मलयाचलः किमपि^4 मे चेतः करोत्युत्सुकम् ॥६॥ तदेहि, अत्रारुह्य वासयोग्यं किञ्चिदाश्रमपदं निरूपयावः। विदूषकः — एव्वं करेम्ह । (अग्रतः स्थित्वा) एदु भवं । एवं कुर्व । एतु भवान् । [आरोहणं नाटयतः] नायकः — (दक्षिणाक्षिस्पन्दनं सूचयन् ) अये ! — दक्षिणं स्पन्दते चक्षुः फलाकाङ्क्षा न मे क्वचित्। न च मिथ्या मुनिवचः कथयिष्यति किं न्विदम् ? ॥१० विदूषकः —भो वअस्स ! अवस्समासण्णं दे पिअं णिवेदयदि भो वयस्य ! अवश्यमासन्नं^5 ते प्रियं निवेदयति। नायकः — एवं नाम^6 यथाह भवान् । श्लोक नं०: ९, अन्वयः —माद्यत् दिग्गजगण्डभित्तिकषणैः चन्दनः भग्नस्रवत्, जलनिधेः वीचिभिः आस्फालितः कन्दरगह्वरः क्रन्दत्; सिद्धांगनानां गतैः पादालक्तमौक्तिकशिलः (मलयाचलः), अयं मलयाचलः दृष्टः (एव) चेतः मे किमपि उत्सुकं करोति श्लोक न० १०, अन्वयः — दक्षिणं चक्षुः स्पन्दते, क्वचित् मे फलाकाङ्क्षा न ; मुनिवचः च न मिथ्या, किं नु इदं कथयिष्यति ॥