नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 68, कुल 309 में से
संदर्भ में पढ़ें( ३४ ) नायिका—(सरोषम्) हज्जे ! मा भअवदिं गोरिं अधिक्खिव। हन्जे ! मा भगवतीं गौरीमधिक्रिप¹। णं अज्ज किदो मे भअवदीए पसाओ । नन्वद्य कृतो मे भगवत्या प्रसादः । चेटी— (सहर्षम्) भट्टिदारिए ! कहेहि दाव कीरिसो सो ? भर्तृदारिके ! कथय तावत्कीदृशः स ? नायिका—हज्जे ! जाणामि, अज्ज सिविणाए एदं एव्व हन्जे ! जानामि, अद्य स्वप्न एतामेव वीणं वादयन्ती भअवदीए गोरीए भणिदम्हि— वीणां वादयन्ती भगवत्या गौर्या भणितास्मि— “वच्छे मलअवदि ! परितुट्ठम्हि तुह एदिणा वीणा- “वत्से मलयवति ! परितुष्टास्मि तवैतेन वीणा- विएणाणादिसएण इमाएअ वालजणदुक्कराए असाहारणाए विज्ञानातिशयेन, अनयाच बालजनदुष्करयाऽसाधारण्या ममोवरि भत्तिए । ता विज्जाहरचक्कवट्टी अचिरेण उज्जेव ममोपरि भक्त्या । तद्विद्याधरचक्रवर्ती अचिरेणैव दे पाणिग्गहणं णिव्वत्तइस्सदी’ त्ति । ते पाणिग्रहणं निर्वर्त्तयिष्यतीति । चेटी—(सहर्षम् ) भट्टिदारिए ! जइ एव्वं, ता कीस सिविणओ इमं भणीअदि ? भर्तृदारिके ! यद्येवं, तत्कस्मात्स्वप्नोऽयं भण्यते ?