नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 74, कुल 309 में से
संदर्भ में पढ़ें( ४० ) विदूषकः — भोदि ! किं एत्थ तुम्हाणं तवोवणे ईरिसो आआरो भवति ! किमत्र युष्माकं तपोवने ईदृश आचारो¹ जेण अदिही आअदो वाआ्मत्तेण वि ण संभावीअदि । येनातिथिरागतो वाङ्मात्रेणापि न सम्भाव्यते ? चेटी — (नायिकां दृष्ट्वा, आत्मगतम्) अणुरज्जदि व्विअ एत्थ एदाए दिट्ठी । भोदु एवं दाव भणिस्सं । अनुरज्यत इवात्रैतस्या दृष्टिः । भवत्वेवं तावद्भणिष्यामि । (प्रकाशम् ) भद्दिदारिए ! जुत्तं भणादि बह्मणो । उइदो भर्तृदारिके ! युक्तं भणति ब्राह्मणः । उचितः क्खु दे अदिहिजणसक्कारो । ता किं ईरिसे महाणुभावे खलु ते ऽतिथिजनसत्कारः । तत्किमीदृशे महानुभावे पडिवत्तिमूढा चिट्ठसि ? ²प्रतिपत्तिमूढा तिष्ठसि ? अहवो चिट्ठ तुमं । अहं एव्व जधाणुरूबं करिस्सं । अथवा तिष्ठ त्वम् । अहमेव यथानुरूपं करिष्यामि । ( नायकमुद्दिश्य ) साअदं अज्जअस्स । ᵌस्वागतमार्यस्य ! आसणपडिग्गहेण अलंकरेदु अज्जो इमं पदेसं । आसनपरिग्रहेणालंकरोत्वार्य इमं प्रदेशम् । विदूषकः — भो वअस्स ! सोहणं एसा भणादि । भो वयस्य ! शोभनमेषा भणति ।