नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 78, कुल 309 में से
संदर्भ में पढ़ें( ११ )
उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णोयमन्तर्भ्रुवो- ¹श्चक्षुस्तामरसानुकारि हरिणा वक्षःस्थलं स्पर्धते । चक्राङ्कं च यथा पदद्वयमिदं मन्ये तथा कोऽप्ययं नो विद्याधर चक्रवर्तिपदवीमप्राप्य विश्राम्यति ॥१८॥ अथवा कृतं ² संदेहेन । व्यक्तमनेनैव जीमूतवाहनेन भवितव्यम् । (मलयवतीं निरूप्य) अये ! इयमपि राजपुत्री (उभौ विलोक्य) चिरात्खलु युक्तकारी विधिः स्याद्यदि युगलमिदमन्योऽन्यानुरूपं घटयेत् । (उपसृत्य, नायकमृद्दिय) स्वस्ति भवते ! नायकः— भगवन् ! जीमूतवाहनोऽभिवादयते । (उत्थातुमिच्छति) तापसः — अलमल मभ्युत्थानेन । ननु “³ सर्वस्याभ्यागतो गुरुः” इति भवानेवास्माकं पूज्यः । तद्यथासुखं स्थीयताम् । नायिका—अज्ज पणाममि । आर्य प्रणमामि ।
श्लोक नं० १८, अन्वयः — मूर्धनि एष उष्णीषः स्फुटः । अन्तर्भ्रुवोः इयम् ऊर्णा विभाति । तामरसानुकारि चक्षुः । वक्षःस्थलं हरिणा स्पर्धते । यथा च इदं पदद्वयं चक्राङ्कम् , तथा मन्ये अयं कोऽपि विद्याधरचक्रवर्तिपदवीमप्राप्य नो विश्राम्यति ॥