भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 80, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 80

( ४६ ) तापसः— (नायिकां निर्दिश्य) वत्से ! अनुरूपभर्तृगामिनी भूयाः । राजपुत्रि ! त्वामाह कुलपतिः कौशिक : यथा- “अतिक्रामति मध्यन्दिनसवनवेला तत्त्वरितमागम्य- तामिति । नायिका— जं गुरुजणो आणवेदि । (आत्मगतम्) यद्गुरुजन आज्ञापयति । एक्कत्तो गुरुवअणं अण्णत्तो दइअदंसणसुहं त्ति । एकतो गुरुवचनमन्यतो दयितदर्शनसुखमिति । गमणागमणविमूढं अज्जवि दोला एदि मे हिअअम् । १६ ।। गमनागमनविमूढमद्यापि दोलायते¹ मे हृदयम् ॥ ( उत्थाय निःश्वस्य सलज्जं सानुरागं च नायकं पश्यन्ती तापससहिता निष्क्रान्ता ) नायकः— (सोत्कण्ठं निःश्वस्य नायिकां पश्यन्) अनया जघनाभोगभरमन्थरयानया । अन्यतोऽपि व्रजन्त्या मे हृदये निहितं पदम् ॥२०॥ विदूषकः—भो दिट्ठं जं पेक्खिदव्वं । ता दाणिं मज्झण्हसूर- भो दृष्टं यत्प्रेक्षितव्यम् । तदिदानीं मध्याह्नसूर्य- सन्दाव दिउणिदो विअ मे जठरग्गी धमधमाअदि संतापद्विगुणित इव मे जठराग्निर्धमधमायते² । श्लोक न० : १६, अन्वयः— एकतः गुरुवचनम्, अन्यतो दयितदर्शन- सुखम्, इति गमनागमनविमूढं मे हृदयम् अद्यापि दोलायते ॥ श्लोक न०: २०, अन्वयः—जघनाभोगभरमन्थरयानया अनया अन्यतोऽपि व्रजन्त्या मे हृदये पदं निहितम् ॥