नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 82, कुल 309 में से
संदर्भ में पढ़ें( ४८ ) ता एहि णिक्कमम्ह जेण वम्हणो अदिही भविअ तदेहि निष्क्रामावः येन ब्राह्मणोऽतिथिर्भूत्वा मुणिजणसक्कासादो लद्धेहिं मुनिजनसकाशाल्लब्धैः कन्दमूलफलेहि वि दाव पाणाधारणं करिस्सं । कन्दमूलफलैरपि तावत्प्राणधारणं करिष्ये । नायकः— (ऊर्ध्वमवलोक्य) अये ! मध्यमध्यास्ते नभस्तलस्य भगवान्सहस्रदीधितिः । तथाहि — 1 तापात्तत्क्षणघृष्टचन्दनरसापाण्डू कपोलौ वहन् संसिक्तैर्निजकर्णतालपवनैः संवीज्यमानाननः । संप्रत्येष विशेषसिक्तहृदयो हस्तोज्झितैः शीकरैः 2 गाढायल्लकदुःसहामिव दशां धत्ते गजानां पतिः ॥२१॥ तदेहावामपि गच्छावः । (इति निष्क्रान्तौ) [ इति प्रथमोऽङ्कः ] ────────── श्लोक न०:२१, अन्वयः - तापात् तत्क्षणघृष्टचन्दनरसापाण्डू कपोलौ वहन्, संसक्तैः निजकर्णताल पवनैः संवीज्यमानाननः, हस्तोज्झितैः शीकरैः विशेषसिक्तहृदयः, एष गजानां पतिः संप्रति गाढायल्लकदुःसहमिवदशां धत्ते ॥