नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 86, कुल 309 में से
संदर्भ में पढ़ें( ५२ ) हज्जे चतुरिए ! कुसुमावचअ—परिसमणिस्सहं मे सरीरं । हञ्जे चतुरिके ! कुसुमावचय—परिश्रमनिःसहं मे शरीरम् । सरदादवजणिदो विअ मे संदावो अधिअदरं वाधेदि । शरदातपजनित इव मे संतापो¹ऽधिकतरं बाधते । ता गच्छ तुमं, बालकदलीपत्तपरिक्खवे चंदनलदाघरए तद् गच्छ त्वं बालकद्लीपत्रपरिक्षिप्ते चन्दनलतागृहे चंदमणिसिलायलं सज्जीकरेहि 'त्ति । अणुचिट्ठिदंअ मए चन्द्रमणिशिलातलं सज्जीकुरु' इति । अनुष्ठितञ्च मया जधा आणत्तं । ता जाव गदुआ भट्टिदारिआए णिवेदेमि । यथाऽऽज्ञप्तम् । तद्यावद् गत्वा भर्तृदारिकायै निवेदयामि । मनोहरिका—जइ एवं ता लहुं गदुअ णिवेदेहि, जेण से यद्येवं तल्लघु² गत्वा निवेदय येनास्या- तहिं गदाए उवसमिदि संदावो । स्तत्र गताया उपशाम्यति संतापः । चतुरिका— (विहस्यात्मगतम् ) ण ईरिसो से संदावो जो नेदृशोऽस्याः संतापो य एव्वं उवसमिसदि । विवित्तरमणीअं चंदणलदाघरअं एवमुपशमिष्यति । विविक्तरमणीयं चन्दनलतागृहं पेक्खन्तीए अधिअदरो संदावो हुविस्सदि त्ति तक्केमि । प्रेक्षमाणाया अधिकतरः संतापो भविष्यतीति तर्कयामि ! (प्रकाशम् ) ता गच्छ तुमं । तद् गच्छ त्वम् ।