नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 88, कुल 309 में से
संदर्भ में पढ़ें( २४ ) अहम्पि 'सज्जीकिदं मणिसिलाअलं' त्ति गदुअ अहमपि 'सज्जीकृतं मणिशिलातलमिति गत्वा भट्टिदारिआए णिवेदेमि । (इति निष्क्रान्ते) भर्तृदारिकायै निवेदयामि । [प्रवेशकः] [ततः प्रविशति सोत्कण्ठा मलयवती चेटी च] मलयवती — (निःश्वस्यात्मगतम्) हिअअ ! तथा णाम तदा तस्सिं जणे लज्जाए मं परम्मुही- हृदय ! तथा नाम तदा तस्मिञ्जने लज्जया मां पराङ्मुखी- कदुअ दाणिं अप्पणा तहिं एव्वं गदं सि त्ति अहो ! कृत्वेदानीमात्मना तत्रैव गतमसीत्यहो ! दे अत्तंभरित्तणं । ते आत्मम्भरित्वम् । (प्रकाशम्) हञ्जे चतुरिए ! आदेसेहि मे भअवदीए आअदणस्स मग्गं । हञ्जे चतुरिके ! आदिश मे भगवत्या आयतनस्य मार्गम् । चेटी — (आत्मगतम्) चन्दणलदाघरअं पत्थिदा भणादि भअवदीए आअदणस्स मग्गं चन्दनलतागृहं प्रस्थिता भणति 'भगवत्या आयतनस्य मार्गम् । (प्रकाशम्) णं चन्दणलदाघरअं भट्टिदारिआ पत्थिदा । ननु चन्दनलतागृहं भर्तृदारिका प्रस्थिता ।