भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 94, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 94

( ६४ ) नायिका- (सहर्षं ससम्भ्रममुत्थाय द्वित्राणि पदानि गत्वा) कहिं कहिं सो ? कुत्र कुत्र सः ? चेटी- (उत्थाय सस्मितं) भट्टिदारिए सो को ? भर्तृदारिके स कः ? नायिका- (सलज्जमुपविश्याधोमुखी तिष्ठति) चेटी- भट्टिदारिए ! णं एदम्हि वत्तुकामा-‘एसो दे भर्तृदारिके ! नन्वेतदस्मि वक्तुकामा-"एष ते हिअअट्ठिदो वरो एव्व देईए दिण्णो सिविणए । हृदयस्थितो वर एव देव्या दत्तः स्वप्ने । पच्छा वि क्खणं एव्व पविमुक्ककुसुमवाणो विअ पश्चादपि क्षणमेव प्रविमुक्तकुसुमबाण इव मअरद्धओ भट्टिदारिआए दिट्ठो । सो दे इमस्स मकरध्वजो भर्तृदारिकया दृष्टः । स तेऽस्य संदावस्स कारणं जेण एदं सहावसीदलंपि चंदण- सन्तापस्य कारणं, येन एतत्स्वभावशीतलमपि चन्दन- लदाघरयं ण दे संदावदुक्खं अवणोदि । लतागृहं न ते सन्तापदुःखमपनयति । नायिका- (चतुरिकाया अलकं सञ्जयन्ती) हञ्जे ! चदुरिआ क्खु तुमं, किं दे अवरं पच्छादीअदि ? हञ्जे ! चतुरिका खलु त्वम्, किं तेऽपरं प्रच्छाद्यते ? ता कहिस्सं । तत्कथयिष्यामि ।