नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 98, कुल 309 में से
संदर्भ में पढ़ें( ६४ ) महाणुभाओ वाङ्गामेत्तएण वि मए ण संभाविदो । महानुभावो वाङ्मात्रेणापि मया न सम्भावितः । सो वि अकिदपडिवत्तीं अदक्खिणोत्ति मं संभाविस्सदि । सोऽप्यकृतप्रतिपत्तिमद्¹क्षिणेति मां सम्भावयिष्यति । ( इति रोदिति ) चेटी-- भट्टिदारिए ! मा रोद । अहवा कहं ण रोइस्सदि ? भर्तृदारिके ! मा रुदिहि । अथवा कथं न रोदिष्यति ? अहिओ से हिअअस्स संदावो अधिअदरं बाधेदि । अधिकोऽस्याः हृदयस्य सन्तापोऽधिकतरं बाधते । ता किं दाणीं एत्थ करिस्सं ? ता जाव चंदणलदा- तत्किमिदानीमत्र करिष्ये । तद्यावच्चन्दनलता- पल्लवरसं से हिअए दाइस्सं । पल्लवरसमस्या हृदये दास्ये । (उत्थाय चन्दनपल्लवं गृहीत्वा निष्पीड्य हृदये ददाति) भट्टिदारिए ! णं भणामि, मा रोद । अअं क्खु भर्तृदारिके ! ननु भणामि, मा रुदिहि । अयं खलु चंदणरसो इमेहिं अणावरद-पडंतेहिं वाहबिंदूहिं उण्हो- चन्दनरस एभिरनवरत-पतद्भिर्बाष्पविन्दुभिरुष्णी- किदो ण दे हिअअस्स संदाबदुक्खं अवणेदि । कृतो न ते हृदयस्य सन्तापदुःखमपनयति । (कदलीपत्रमादाय वीजयति) नायिका-(हस्तेन निवारयन्ती) सहि ! मा वीजेहि । सखि ! मा वीजय ।