नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 108, कुल 226 में से
संदर्भ में पढ़ें९२ नैषधचरितम् । [ द्वितीयः जलजे इति ॥ जलजे = द्विपद्मे रविसॆवया = सूर्योपासनया इव [ एतत्पदतां ] एतस्याः पदतां चरणत्वमेव पदं = प्रतिष्ठाम् अवापतुः । ते = जलजे कर्मभूते, विधिवत्रदम्पती = द्वन्द्वचारिणौ ब्रह्मवाहन-हंसौ, एत्य = आगत्य, रुतः = रवात्, कूजनादित्यर्थः । रौतेः सम्पदादित्वात् क्विपि तुगागमः । सहंसकी= सकटकौ सहंसकी च, कुरुतः । अभूततद्भावे च्विः । 'हंसकः पादकटकः' इत्यमरः। हंसपक्षे वैभाषिकः कप्रत्ययः । ध्रुवम् इत्युत्प्रेक्षायाम् । पद्महंसयोरविनाभावात् कयो- श्चिद्दिव्यपद्मयोस्तत्पदत्वमुत्प्रेक्ष्य दिव्यहंसयोरेव हंसकत्वं चोत्प्रेक्षते ॥३८॥ जिन कमल-दम्पती ने मानो सूर्य की उपासना करके, दमयन्ती के पद (चरण) रूप ( उच्च ) पद पाया, वे ब्रह्मा के वाहन ( पत्र ) स्वरूप हंसदम्पती को, ( मरालग़ामिनी दमयन्ती के चरणयुगल के ) पास लाकर, यह निश्चित है कि नूपुर ( पाजेब ) द्वय के रूप में परिणत कर, उसे मुखरित ( छम छम की आवाज़ ) कर रहे हैं ॥ ३८ ॥ श्रितपुण्यसरःसरित् कथं न समाधिक्षपिताखिलक्षपम् । जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥३९॥ श्रितेति । [ श्रित-पुण्य-सरःसरित् ] श्रिताः सेविताः, पुण्याः, सरःसरितः मानसादीनि सरांसि गङ्गाद्याः सरितश्च ये तत् । [ समाधि-क्षपिताखिलक्षपं ] समाधिना ध्यानेन निमीलनेन क्षपिताखिलक्षपं यापितसर्वरात्रं, जलजं [ दमयन्ती- पद-नाम्नि ] दमयन्तीपदमिति नाम यस्मिन् जन्मनि, मञ्जुलां गतिं = रम्य- गतिम्, उत्तमदशाञ्च । 'गतिर्मार्गे दशायां च' इति विश्वः । कथं नैतु=एत्वे- वेत्यर्थः । पदस्य गतिसाधनत्वात् तत्रापि दमयन्तीसम्बन्धाच्चोभयगतिलाभः । तथापि जन्मान्तरेऽपि सर्वथा तपः फलितमिति भावः । सम्भावनायां लोट् ॥३६॥ पवित्र ( मान- ) सरोवर एवं ( गङ्गा आदि ) नदियों में ( स्वाभाविक रूप से, धर्मार्जन की अभिलाषा से ) आश्रय लेने ( रहने ) वाले तथा ( सूर्य के दिख- लायी न पड़ने से कलीरूप में आँखें मूंदकर ) समाधि में, ध्यानावस्थित हो, सारी रात बिताने वाले कमल—'दमयन्ती के चरण' नाम वाले ( अर्थात् दमयन्ती के पद रूप में उत्पन्न) जन्मान्तर में, क्यों न मनोहर गति (चाल, दशा) पावें ? ॥३६॥ सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता । अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥४०॥