नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 158, कुल 226 में से
संदर्भ में पढ़ें१४२ नैषधचरितम् । [तृतीयः कामवासना से युक्त होने के कारण हर्षित होती हुई इन्द्राणी के रोमाञ्च को, उसके पुण्य-प्रताप से नहीं देख पाये (अन्यथा उसे असती समझकर, उसका परित्याग कर देते) ॥ २८ ॥ सापीश्वरे शृण्वति तद्गुणौघान् प्रसह्य चेतो हरतोऽर्धशम्भुः । अभूदपर्णाङ्गुलिरुद्धकर्णा कदा न कण्डूयनकैतवेन ॥ २९ ॥ सेति । ईश्वरे = हरे प्रसह्य चेतो हरतः = बलान्मनोहारिणः [तद्गुणौ- घान्] तस्य नलस्य, गुणौघान् शृण्वति सति । सा = प्रसिद्धा, अर्धे शम्भोरर्ध- शम्भुः = शम्भोरर्धाङ्गभूतेत्यर्थः । तथा चापसरणमशक्यमिति भावः । अपर्णा = पार्वती अपि कदा कण्डूयनकैतवेन = कण्डूनोदनव्याजेन [अंगुलिरुद्धकर्णा ] अङ्गुल्या रुद्धः पिहितः, कर्णौ यया सा, नाभूत् = अभूदेवेत्यर्थः । अन्यथा, चित्त- चलनादिति भावः ॥ २६ ॥ महेश्वर शिवजी के—बलात् चित्त को आकृष्ट करनेवाले नल के (विविध) गुण-गणों के सुनने पर, अर्द्धाङ्ग जिसके शिवजी हैं ऐसी पतिव्रता (जिसने उनकी प्राप्ति के लिए उत्कट तपस्या करते समय पर्णाशन करना भी छोड़ दिया था, उस) अ-पर्णा पार्वती ने भी, कान खुजलाने के बहाने, कब अंगुलियों से अपने कान बन्द नहीं किये ? (अर्थात् ऐसे अवसरों पर, वे सदा कानों में अंगुलि डाल लिया करती थीं; क्योंकि आधे अङ्ग में शिव जी के होने के कारण वे वहाँ से हट नहीं सकती थीं और दूसरी ओर नल का गुणानुवाद सुनने से, चित्त में विकार उत्पन्न होने पर उनका पातिव्रत्य भङ्ग होता) ॥ २६ ॥ अलं सजन् धर्मविधौ विधाता रुणद्धि मौनस्य मिषेण वाणीम् । तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न वेद तां वेदजडः स वक्ताम् ॥ ३० ॥ अलमिति । विधाता = ब्रह्मा, अलम् = अत्यन्तं, धर्मविधौ = सुकृताचरणे सजन् = धर्मासक्तः सन्नित्यर्थः । वाणीं = स्वभार्यां वाग्देवीं वर्णात्मिकाञ्च, मौनस्य = वाग्यमनव्रतस्य, मिषेण रुणद्धि । नलकथाप्रसङ्गान्निरुन्धे तस्या उभय्या अपि तदा- सङ्गभयादिति भावः । किन्तु, वेदजडः = छान्दसः स = विधाता ताम् = उभयीमपि वाणीं । [तत्कण्ठं] तस्य नलस्य, कण्ठं ग्रीवाम् आलिङ्ग्य सुखमाश्रित्य च, रसस्य तृप्तां = तद्रागसन्तुष्टाम्, अन्यत्र शृङ्गारादिरसपुष्टाञ्च । सम्बन्धसामान्ये षष्ठी । 'पूरणगुण...' इत्यादिना षष्ठीनिषेधोऽवेव ज्ञापकादिति केचित् । वक्तां = प्रति-