नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 162, कुल 226 में से
संदर्भ में पढ़ें१४६ नैषधचरितम् । [ तृतीयः अत्र = आलेखनेन दन्तमयी विद्याद्वयी दशांश इव इत्युत्प्रेक्षा । अत्र मनुः--'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश ।। 'आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ।।' इति ।। ३५ ।। नल के मुँह में बत्तीस दाँत रूपी रेखाओं ( चिह्नों ) से गिन कर, ब्रह्मा मानों यों सूचित करते हैं कि यहाँ ( नल के मुँह में ) दोनों प्रकार की ( अर्थात् किसी के मत से ) १४ विद्याएँ और ( किसी के मत से ) १८ विद्याएँ ( दोनों मतों के समन्वय रूप हो ) निवास करती हैं । ( 'दन्तमयी' के अक्षरों को ज़रासा इधर- उधर करने पर 'दमयन्ती' शब्द बन जाता है ) ।। ३५ ।। श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्रावपि न स्मरामः । वासेन सम्यक् क्षमयोश्च तस्मिन् बुद्धौ न दध्मः खलु शेषबुद्धौ ।।३६।। श्रियाविति । तस्य नरेन्द्रस्य, श्रियौ=सौन्दर्यसम्पदौ, निरीक्ष्य । 'शोभा- सम्पत्ति-पद्मासु लक्ष्मीः श्रीः' इति शाश्वतः । स्मरामरेन्द्रावपि न स्मरामः । किं च, तस्मिन् = नरेन्द्रे क्षमयोः = क्षिति-क्षान्त्योः । 'क्षिति-क्षान्त्योः क्षमाः' इत्यमरः । सम्यग्वासेन = निर्वाधस्थित्या, शेषबुद्धौ = फणिपति-बुद्धदेवौ बुद्धौ = चित्ते न दध्मः = न धारयामः खलु । अत्र द्वयोरपि श्रियोः द्वयोरपि क्षमयोः, प्रकृतत्वात् केवलप्रकृतश्लेषः । एतेन सौन्दर्यादिगुणैः स्मरादिभ्योऽप्यधिक इति व्यतिरेको व्यज्यते । श्लेषयथासंख्ययोः सङ्करः ।। ३६ ।। नरपति नल की शोभा और समृद्धि देख कर, ( क्रमशः शोभाशाली तथा समृद्धिशाली ) कामदेव और इन्द्र की भी याद नहीं आती । उन में पृथिवी और क्षमा का पूर्णतया वास देख कर, ( क्रमशः पृथिवी-धारणकर्ता एवं क्षमा के अव- तार ) शेषनाग और गौतमबुद्ध भी चित्त में नहीं जमते ॥ ३६ ॥ विना पतत्रं विनतातनूजौः समीरणैरीक्षणलक्षणीयैः । मनोभिरासीदनणुप्रमाणैर्निर्जिता दिक्कतमा तदश्वैः ।।३७।। विनेति । पतत्रं विना, स्थितैरिति शेषः । विनतातनूजौः = वैनतेयैः, अप- क्षताद्यैरित्यर्थः । ईक्षणलक्षणीयैः समीरणैः = चाक्षुषवायुभिः अनणुप्रमाणैः अणुपरिमाणं मन इति तार्किकैः । तद्विपरीतं महापरिमाणं मनोभिर्वैनतेयादिसमान-