नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 163, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४७ वैगैरित्यर्थः । एवंविधैः तदश्वैः कतमा दिक् न निर्जिता = लङ्घिता आसीत्, सर्वापि लङ्घितैवासीदित्यर्थः । अत्राश्वानां विशिष्टवैनतेयादित्वेन निरूपणाद्रूपकालङ्कारः॥ नल के घोड़ों ने—पंख के बिना ( अर्थात् पंख रहित होने पर भी, पंख- सहित ) विनतातनय गरुड की गति से, नेत्रों को दीख पड़ने वाले वायु की गति से और महापरिमाणवाले मन की गति से—किन दिशाओं को न जीता हो ? ( अर्थात् वे अखिल दिग्विजयी हैं ) ॥ ३७ ॥ संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु । तद्वाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ॥३८॥ संग्रामेति । अरीणाम् अस्रैः = असृग्भिः [ नदीमातृकतां ] नद्येव माता यासां तास्तत्ता नदीमातृकता, नद्यम्बुसम्पन्नशस्याद्यता । 'देशो नद्यम्बुवृष्ट्य- म्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम्' इत्यमरः। 'नद्यृतश्च' इति कप् । 'त्वतलोर्गुणवचनस्य' इति पुंवद्भावः । तां, गतासु संग्रामभूमीषु, [ तद्वाणधारा-पवनाशनानां ] तस्य नलस्य बाणधाराः बाणपरम्परास्ता एव पव- नाशनाः सर्पाः, तेषां राजव्रजीयैः = राजसंघसम्बन्धिभिः, वृद्धाच्छः । असुभिः = प्राणवायुभिः, सुभिक्षम् = भिक्षाणां समृद्धिर्भवति । समृद्ध्यावव्ययीभावः । नदीमातृकदेशेषु सुभिक्षं भवतीति भावः । रूपकालङ्कारः ॥३८॥ नल के द्वारा छोड़े गये ( सर-सर करते हुए ) बाणरूपी सपों को, उन्हीं बाणों से निकाली गयी वैरि-राजसमूह की प्राण-वायु को खिलाकर, वैरियों के रक्त से ( अनाज उत्पन्न करने के कारण ) नदी-रूप माता हुई ( अर्थात् नदी बनी हुई ) रणभूमि सुभिक्ष करने वाली होती है ॥३८॥ यशो यदस्याजनि संयुगेषु कण्डूलभावं भजता भुजेन । हेतोर्गुणादेव दिगापगाली-कूलङ्कषत्वं व्यसनं तदीयम् ॥३९॥ यश इति । संयुगेषु = समरेषु कण्डूलभावं = कण्डूलत्वं । 'सिध्मादिभ्यश्च' इति मत्वर्थीयो लच् । भजता अस्य भुजेन यद्यशः अजनि = जनितं । जनेर्ण्य- न्तात्कर्मणि लुङ् । तदीयं = तस्य यशःसम्बन्धि [ दिगापगाली-कूलङ्कषत्वं ] दिशः एव आपगाः नद्यः, तासां आलिः राजिः, तस्याः कूलङ्कषतीति कूलङ्कषं । शिवभागवतवत्समासः । 'सर्वकूला' इत्यादिना खचि मुमागमः । तस्य भावस्तत्त्वं । तत्र व्यसनम् = आसक्तिः हेतोः = कारणस्य भुजस्य, गुणादेव = कण्डूलत्वादेव