नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 164, कुल 226 में से
संदर्भ में पढ़ें१४८ नैषधचरितम् । [तृतीयः आत मिति Digitized by Sarayu Trust Foundation and eGangotri कण्डूलतायाः तत्कारणकण्डूल- भुजगुणपूर्वत्वमुत्प्रेक्ष्यते ॥३६॥ रण की खुजली वाली भुजा ने, समर में जो नल का यश उत्पादन किया, उस यश ने, दिशा रूपी नदीसमूह के तीर पर, अपना जो कार्य (खुजलाना) प्रारम्भ किया, इसमें 'कारण' ही गुण हुआ (अर्थात् नल की कीर्ति रूपी खुजली सभी दिशाओं में फैल गयी) ॥३६॥ यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात् । पारेपरार्धं गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात् ॥४०॥ यदीति । किं बहुना, त्रयाणां लोकानां समाहारस्त्रिलोकी । 'तद्धितार्थ' इत्या- दिना समाहारे द्विगुः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते' । 'द्विगोः' इति ङीप् । गणनापरा = नलगुणसंख्यानतत्परा । स्याद्यदि तस्याः = त्रिलोक्याः, आयुषः समाप्तिर्न स्याद्यदि=अमरत्वं यदि स्यादित्यर्थः । परार्द्धस्य चरमसंख्यायाः पारे पारेपरार्द्धं । 'पारे मध्ये षष्ठ्या वा' इति अव्ययीभावः । गणितं स्याद्यदि । परार्द्धात् परतोऽपि यदि संख्या स्यादित्यर्थः । तदा स=नलोऽपि [गणेयनिःशेषगुणः] गणेया गणितुं शक्याः, निःशेषा निखिला गुणा यस्य स स्यात् । 'गणेयः' इति औणादिक एयप्रत्ययः । अत्र नलगुणानां गणेयत्वासम्बन्धेऽपि सम्बन्धामिधानादतिशयोक्तिः ॥ यदि तीनों लोकों के मनुष्य (नल के गुणों को) गिनने में लग जाँय, यदि उन (तीनों लोकों के मनुष्यों) की आयु की समाप्ति न हो और यदि गणित के अङ्क 'परार्ध' से भी अधिक हो जाँय; तब कहीं नल के अशेष गुणों की गणना हो सकती है ॥ ४० ॥ अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः । गतेषु रम्येष्वधिकं विशेषमध्यापयामः परमाणुमध्याः ॥ ४१ ॥ एवं नलगुणाननुवर्ण्य गूढाभिसन्धिनात्मनस्तदन्तःपुरेऽपि परिचयं दर्शयति— अवारितेत्यादि । तिरश्चां = पक्षिणां अवारितद्वारतया = अप्रतिषिद्धप्रवेशत्तये- त्यर्थः । तस्य राज्ञः=नलस्य, अन्तःपुरे निविश्य = अवस्थाय, परमाणुमध्याः= अतिसूक्ष्ममध्यास्तदङ्गनाः, रम्येषु गतेषु = गतिषु अधिकम् = अपूर्वं, विशेषं = भेदम् अध्यापयामः = अभ्यासयामः । दुहादित्वाद्विकर्मत्वम् ॥४१॥ पक्षियों के CC-0. Prof. Satya Vrat Shastri Collection. रनिवास का दरवाजा सदा खुला रहने के