नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 165, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-मदयन्तिकासहितम् १४९ कारण, उसमें प्रवेशकर, परमाणु के समान पतली कमरवाली सुन्दरी सखियों को-- जिनकी चाल स्वभावतः सुन्दर है उन्हें हम अधिक और विशेष प्रकार की ( स्वर्गीय, दिव्य ) चाल सिखाते हैं ( अर्थात् स्पेशल ट्रेनिङ्ग देते हैं ) ॥४१॥ पीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः । रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सृजताहताभिः ॥४२॥ पीयूषेति । किं च, [ पीयूष-धारानधराभिः ] पीयूषधाराभ्यः अनधरा- भिरन्यूनाभिः, अमृतसमानाभिः, काव्यं सृजता = स्वयं प्रबन्धकर्त्रा । [ काव्येन ] कवेरपत्यं पुमान् काव्यः तेन शुक्रेण । 'शुक्रो दैत्यगुरुः काव्यः'इत्यमरः । 'कुर्वादिभ्यो ण्यः'इति ण्यप्रत्ययः । आहताभिः = तस्यापि विस्मयकरीभिरित्यर्थः । [ रम्भादि- सौभाग्यरहःकथाभिः ] रम्भादीनां दिव्यस्त्रीणां सौभाग्यं पतिवाल्लभ्यं, तत्प्रयुक्ताभिः रहःकथाभिः, रहस्यवृत्तान्तवर्णनाभिः, तासां = नलान्तःपुरस्त्रीणाम् अन्तः = अन्तः- करणं, रसोदन्वति = शृङ्गाररससागरे, मज्जयामः = अवगाहयामः ॥४२॥ अमृत-धारा के तुल्य ( अर्थात् अमृत-प्रवाह से किसी प्रकार भी न्यून न होने वाली ) और ( रसात्मक वाक्य वाले ) काव्य के रचयिता शुक्राचार्य से आदर- पूर्वक पुरस्कृत-रम्भा आदि ( देवाङ्गनाओं ) के सौभाग्य ( जनता के वशीकरण करने के सामर्थ्य ) की एकान्त-जीवन ( सम्भोग ) वाली कथाओं से,-हम उनकी रानियों के अन्तःकरण को, शृङ्गार रस के उदधि में, अवगाहन कराते रहते हैं ॥ काभिर्न तत्राभिनवस्मराज्ञा-विश्वास-निक्षेप-वणिक्क्रियेऽहम् । जिह्वेति यन्नैव कुतोऽपि तिर्यक् कश्चित्तिरश्चात्रपते न तेन ॥४३॥ काभिरिति । किञ्च, यत्=यस्मात्, तिर्यक्=पक्षी, कुतोऽपि=जनात्, न जिह्वेति = न लज्जत एव । 'ह्री लज्जायाम्'इति धातोर्लट् । 'श्लौः'इति द्विर्भावः । तिरश्चोऽपि कश्चिज्जनो न त्रपते = न लज्जते । तेन = कारणेन, तत्र=अन्तःपुरे, काभिः = स्त्रीभिः अहम् [ अभिनव-स्मराज्ञा-विश्वास-निक्षेप-वणिक् ] अभिनवा अपूर्वा स्मराज्ञा रतिरहस्यवृत्तान्तः, सैव विश्वासनिक्षेपो विश्वासेन गोप्यार्थः । तस्य वणिक् गोप्ता, न क्रिये = न कृतोऽस्मि । सर्वासामप्यहमेव विस्रम्भकथापात्रमस्मीत्यर्थः ॥ नल के रनिवास में, किन महिलाओं ने मुझे-कामदेव के नये-नये आदेश के विश्वास से, धरोहर रखनेवाला महाजन-न बनाया हो ? ( जैसे किसी साहूकार के पास धरोहर की वस्तु विश्वासपूर्वक रख दी जाती है, उसी प्रकार वे युवतियाँ